ஶ்ரீமதே ராமாநுஜாய
நம:
எம்பெருமானார் அருளிச் செய்த
க₃த்₃யத்ரயம்
[ஶரணாக₃தி க₃த்₃யம், ஶ்ரீரங்க₃ க₃த்₃யம், ஶ்ரீவைகுண்ட₂ க₃த்₃யம்.]
eeeeefffff
ஶ்ரீ காஞ்சீ பிரதிவாதிபயங்கரம்
அண்ணங்கராசாரியர்
இயற்றிய
கத்யபாவ ப்ரகாசிகையென்னு முரையுடன்
ஶ்ரீ காஞ்சீ ஸுதர்சன அச்சுக்கூடத்தில்
பதிப்பிக்கப்பட்டது.
விலை 1-2-0
1948
श्रीबगवद्रामानुजमुनिभिरनुगृहितं
॥ शरणागतिगद्यम् ॥
यो नित्यमच्युताम्बुजयुग्मरुक्म व्यामोहतस्तादितराणि तृणाय मेने
।
अस्मद्गुरोर्भगवतोऽस्य दयैकसिन्धोः रामानुजस्य चरणौ शरणं प्रपद्ये
॥
वन्दे वेदान्तकर्पूरचामीकर करण्डकम्।
रामानुजार्यमार्याणां चूडामणिमहर्निशम् ॥
श्रीरामानुजः
भगवन्नारायणाभिमतानुरूपस्वरूपरूपगुणविभवैश्वर्यशीलाद्यनवधिकातिशयासङ्ख्येयकल्याणगुण-गणां, पद्मवनालयां, भगवतीं, श्रियं, देवीं, नित्यानपायिनीं, निरवद्यां, देवदेवदिव्यमहिषीं, अखिलजगन्मातरम्, अस्मन्मातरम्, अशरण्यशरण्याम्, अनन्यशरणः, शरणमहं
प्रपद्ये ॥ १ ॥
पारमार्थिक भगवच्चरणारविन्दयुगळ ऐकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिकृत
परिपूर्णानवरत नित्यविशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय भगवदनुभवजनित अनवधिकातिशय
प्रीतिकारित अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकैङ्कर्यप्राप्त्यपेक्षया पारमार्थिकी
भगवच्चरणारविन्दशरणागतिः यथावस्थिता अविरताऽस्तु मे ॥ २ ॥
श्रीरङ्गनायिका
अस्तु ते ॥ ३ ॥ तयैव सर्वं सम्पत्स्यते
॥ ४ ॥
॥ श्रीरङ्गनाथरामानुजसंवादः ॥
श्रीरामानुजः
अखिलहेयप्रत्यनीककल्याणैकतान! स्वेतरसमस्तवस्तुविलक्षण अनन्तज्ञानानन्दैकस्वरूप!
स्वाभिमतानुरूप एकरूप अचिन्त्य दिव्याद्भुत नित्यनिरवद्य निरतिशय औज्ज्वल्य सौन्दर्य
सौगन्ध्य सौकुमार्य लावण्य यौवनाद्यनन्तगुणनिधिदिव्यरूप ! स्वाभाविकानवधिकातिशय ज्ञानबलैश्वर्य
वीर्यशक्तितेजस्सौशील्य वात्सल्य मार्दव आर्जव सौहार्द साम्य कारुण्य माधुर्य गाम्भीर्य
औदार्य चातुर्यस्थैर्यधैर्यशौर्यपराक्रमसत्यकामसत्यसङ्कल्पकृतित्व
कृतज्ञताद्यसङ्ख्येयकल्याणगुणगणौघमहार्णव! स्वोचितविविधविचित्रानन्ताश्चर्यनित्यनिरवद्यनिरतिशयसुगन्ध
निरतिशयसुखस्पर्शनिरतिशयौज्ज्वल्य किरीटमकुटचूडावतंस मकरकुण्डलग्रैवेयकहारकेयूरकटकश्रीवत्सकौस्तुभमुक्तादामोदरबन्धन
पीताम्बर काञ्चीगुण नूपुराद्यपरिमितदिव्यभूषण! स्वानुरूप अचिन्त्यशक्तिशङ्खचक्रगदासिशार्ङ्गाद्यसङ्ख्येय
नित्यनिरवद्य निरतिशय कल्याणदिव्यायुध! स्वाभिमतनित्यनिरवद्यानुरूपस्वरूपरूपगुणविभवैश्वर्य
शीलाद्यनवधि- कातिशयासङ्ख्येय कल्याणगुणगणश्रीवल्लभ!
एवम्भूतभूमिनीळानायक! स्वच्छन्दानुवर्तिस्वरूपस्थितिप्रवृत्ति भेदाशेषशेषतैकरतिरूप
नित्यनिरवद्यनिरतिशय ज्ञानक्रियैश्चर्याद्य-नन्तकल्याणगुणगण शेषशेषाशनगरुड प्रमुखनानाविधानन्तपरिजनपरिचारिकापरिचरित
चरणयुगळ! परमयोगिवाङ्मनसाऽपरिच्छेद्यस्वरूप स्वभावस्वाभिमत विविधविचित्रानन्त भोग्यभोगोपकरण
भोगस्थानसमृद्धानन्ताश्चर्यानन्तमहाविभवानन्त परिमाणनित्यनिरवद्यनिरतिशयश्रीवैकुण्ठनाथ!
स्वसङ्कल्पानुविधायि स्वरूपस्थितिप्रवृत्ति स्वशेषतैक स्वभाव प्रकृति पुरुष कालात्मक
विविध विचित्रानन्त भोग्य भोक्तृवर्ग भोगोपकरण भोगस्थानरूप निखिलजगदुदय विभव लयलील!
सत्यकाम! सत्यसङ्कल्प ! परब्रह्मभूत ! पुरुषोत्तम ! महाविभूते ! श्रीमन्! नारायण! वैकुण्ठनाथ
! अपारकारुण्य सौशील्य वात्सल्य औदार्य ऐश्वर्य सौन्दर्य महोदधे ! अनालोचितविशेष अशेषलोकशरण्य
! प्रणतार्तिहर ! आश्रितवात्सल्यैक जलधे! अनवरतविदित निखिलभूतजातयाथात्म्य! अशेषचराचरभूत
निखिलनियमननिरत! अशेषचिदचिद्वस्तुशेषिभूत! निखिलजगदाधार! अखिलजगत्स्वामिन्! अस्मत्स्वामिन्!
सत्यकाम! सत्यसङ्कल्प! सकलेतरविलक्षण! अर्थिकल्पक! आपत्सख! श्रीमन्! नारायण! अशरण्यशरण्य!
अनन्यशरणः त्वत्पादारविन्दयुगळं शरणमहं प्रपद्ये
॥ ५ ॥
अत्र द्वय(मनुसन्देय)म्
।
“पितरं
मातरं दारान् पुत्रान् बन्धून् सखीन् गुरून् ।
रत्नानि धनधान्यानि क्षेत्राणि
च गृहाणि च ॥
सर्वधर्मांश्च सन्त्यज्य
सर्वकामांश्च साक्षरान् ।
लोकविक्रान्तचरणौ शरणं तेऽव्रजं
विभो! ॥“ ६ ॥
“त्वमेव
माता च पिता त्वमेव त्वमेव बन्धुश्च गुरुस्त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं मम देवदेव ॥“ ७ ॥
“पिताऽसि
लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् ।
न त्वत्समोऽस्त्यभ्यधिकः
कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव !” ॥ ८ ॥
“तस्मात्
प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् ।
पितेव पुत्रस्य सखेव सख्युः
प्रियः प्रियायार्हसि देव सोढुम्” ॥ ९ ॥
मनोवाक्कायैरनादिकालप्रवृत्त
अनन्त अकृत्यकरण कृत्याकरण भगवदपचार भागवतापचार असह्यापचाररूप नानाविध अनन्तापचारान्
आरब्धकार्यान्,
अनारब्धकार्यान्, कृतान्, क्रियमाणान्, करिष्यमाणांश्च सर्वान् अशेषतः क्षमस्व ॥ १०
॥
अनादिकालप्रवृत्तविपरीतज्ञानं, आत्मविषयं कृत्स्नजगद्विषयं च, विपरीतवृत्तं च अशेषविषयं, अद्यापि वर्तमानं वर्तिष्यमाणं
च सर्वं क्षमस्व ॥ ११ ॥
मदीयानादिकर्मप्रवाहप्रवृत्तां, भगवत्स्वरूपतिरोधानकरीं, विपरीतज्ञानजननीं, स्वविषयायाश्च भोग्यबुद्धेर्जननीं, देहेन्द्रियत्वेन भोग्यत्वेन सूक्ष्मरूपेण च अवस्थितां, दैवीं गुणमयीं मायां, “दासभूतः शरणागतोऽस्मि तवास्मि दासः”,
इति वक्तारं मां तारय ॥ १२ ॥
*तेषां
ज्ञानी नित्ययुक्तः एकभक्तिर्विशिष्यते ।
प्रियो हि ज्ञानिनोऽत्यर्थमहं
स च मम प्रियः ॥
उदाराः सर्व एवैते ज्ञानी
त्वात्मैव मे मतम् ।
आस्थितः स हि युक्तात्मा
मामेवानुत्तमां गतिम् ॥
बहूनां जन्मनामन्ते ज्ञानवान्
मां प्रपद्यते ।
वासुदेवः सर्वमिति स महात्मा
सुदुर्लभः ॥*
इति श्लोकत्रयोदितज्ञानिनं मां कुरुष्व ॥ १३ ॥
*पुरुषः
स परः पार्थ! भक्त्या लभ्यस्त्वनन्यया, *भक्त्या त्वनन्यया शक्यः, *मद्भक्तिं लभते पराम्* इति स्थानत्रयोदितपरभक्तियुक्तं
मां कुरुष्व ॥ १४ ॥
परभक्तिपरज्ञानपरमभक्त्येकस्वभावं
मां कुरुष्व ॥ १५ ॥
परभक्ति परज्ञान परमभक्तिकृत
परिपूर्णानवरत नित्यविशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय भगवदनुभवोऽहं, तथाविध भगवदनुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकिङ्करो
भवानि ॥ १६ ॥
श्रीरङ्गनाथः
एवम्भूत मत्कैङ्कर्यप्राप्त्युपायतया अवकॢप्तसमस्तवस्तुविहीनोऽपि, अनन्त तद्विरोधिपापाक्रान्तोऽपि, अनन्त मदपचारयुक्तोऽपि, अनन्त मदीयापचारयुक्तोऽपि, अनन्त असह्यापचारयुक्तोऽपि, एतत्कार्यकारणभूत अनादि विपरीताहङ्कार विमूढात्मस्वभावोऽपि, एतदुभयकार्यकारणभूत अनादि विपरीतवासनासम्बद्धोऽपि, एतदनुगुण
प्रकृतिविशेषसम्बद्धोऽपि, एतन्मूल आध्यात्मिक आधिभौतिक आधिदैविक
सुखदुःख तद्धेतु तदितरोपेक्षणीय विषयानुभव ज्ञानसङ्कोचरूप मच्चरणारविन्दयुगळ एकान्तिकात्यन्तिक
परभक्ति परज्ञान परमभक्तिविघ्नप्रतिहतोऽपि, येनकेनापि
प्रकारेण द्वयवक्ता त्वम्, केवलं मदीययैव दयया, निश्शेषविनष्ट सहेतुक मच्चरणारविन्दयुगळ एकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिविघ्नः, मत्प्रसादलब्ध मच्चरणारविन्दयुगळ एकान्तिकात्यन्तिक परभक्ति परज्ञान परमभक्तिः, मत्प्रसादादेव साक्षात्कृत यथावस्थित
मत्स्वरूपरूपगुणविभूति लीलोपकरणविस्तारः, अपरोक्षसिद्ध मन्नियाम्यता मद्दास्यैकरसात्म स्वभावात्मस्वरूपः, मदेकानुभवः,
मद्दास्यैकप्रियः, परिपूर्णानवरत नित्यविशदतम
अनन्यप्रयोजन अनवधिकातिशयप्रिय मदनुभवस्त्वं तथाविध मदनुभवजनित अनवधिकातिशय प्रीतिकारित
अशेषावस्थोचित अशेषशेषतैकरतिरूप नित्यकिङ्करो भव ॥ १७ ॥
एवम्भूतोऽसि ॥ १८ ॥
आध्यात्मिक आधिभौतिक आधिदैविक
दुःखविघ्नगन्धरहितस्त्वं द्वयमर्थानुसन्धानेन सह सदैवं वक्ता यावच्छरीरपातं अत्रैव
श्रीरङ्गे सुखमास्व ॥ १९ ॥
शरीरपातसमये तु केवलं मदीययैव
दयया अतिप्रबुद्धः, मामेवावलोकयन्, अप्रच्युत
पूर्वसंस्कारमनोरथः, जीर्णमिव वस्त्रं सुखेन इमां प्रकृतिं स्थूलसूक्ष्मरूपां
विसृज्य,
तदानीमेव मत्प्रसादलब्ध मच्चरणारविन्दयुगळ एकान्तिकात्यन्तिक
परभक्ति परज्ञान परमभक्तिकृत परिपूर्णानवरत नित्य विशदतम अनन्यप्रयोजन अनवधिकातिशयप्रिय
मदनुभवस्त्वं तथाविध मदनुभवजनित अनवधिकातिशय प्रीतिकारित अशेषावस्थोचित अशेषशेषतैकरतिरूप
नित्यकिङ्करो भविष्यसि ॥ २० ॥
मा ते भूदत्र संशयः ॥ २१
॥
*अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन, *रामो द्विर्नाभिभाषते, *सकृदेव
प्रपन्नाय तवास्मीति च याचते। अभयं सर्वभूतेभ्यो ददाम्येतद्व्रतं मम ॥ *सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो
मोक्षयिष्यामि मा शुचः ॥ इति मयैव ह्युक्तम् ॥ २२ ॥
अतस्त्वं तव तत्त्वतो मज्ज्ञानदर्शनप्राप्तिषु निःसंशयः सुखमास्व ॥ २३ ॥
अन्त्यकाले स्मृतिर्यातु
तव कैङ्कर्यकारिता ।
तामेनां भगवन्नद्य क्रियामाणां
कुरुष्व मे ॥
इति श्री
भगवद्रामानुजविरचिते शरणागति गद्यम् समाप्तम्॥
श्रीबगवद्रामानुजमुनिभिरनुगृहितं
॥ श्रीरङ्गगद्यम् ॥
चिदचित्परतत्त्वानां
तत्त्वयाथार्थ्यवेदिने ।
रामानुजाय
मुनये नमो मम गरीयसे ॥
स्वाधीन त्रिविध चेतनाचेतन स्वरूपस्थितिप्रवृत्तिभेदं क्लेशकर्माद्यशेषदोषासंस्पृष्टं स्वाभाविकानवधिकातिशय ज्ञानबलैश्वर्य वीर्य शक्तितेजस्सौशील्य वात्सल्य मार्दवार्जव
सौहार्द साम्य कारुण्य माधुर्य गाम्भीर्य औदार्य चातुर्य स्थैर्य धैर्य शौर्य पराक्रम
सत्यकाम सत्यसङ्कल्प कृतित्व कृतज्ञताद्यसङ्ख्येय कल्याण गुणगणौघमहार्णवं, परब्रह्मभूतं, पुरुषोत्तमं, श्रीरङ्गशायिनं, अस्मत्स्वामिनं, प्रबुद्धनित्यनियाम्य नित्यदास्यैकरसात्मस्वभावोऽहं, तदेकानुभवः तदेकप्रियः, परिपूर्णं भगवन्तं, विशदतमानुभवेननिरन्तरमनुभूय, तदनुभव जनितानवधिकातिशय प्रीतिकारिताशेषावस्थोचित
अशेषशेषतैकरतिरूप नित्यकिङ्करो भवानि ॥ १ ॥
स्वात्म नित्यनियाम्य नित्यदास्यैकरसात्म स्वभावानुसन्धानपूर्वक भगवदनवधिकातिशय
स्वाम्याद्यखिल गुणगणानुभवजनित अनवधिकातिशय प्रीतिकारिताशेषावस्थोचित अशेषशेषतैकरतिरूप
नित्यकैङ्कर्य प्राप्त्यु- पायभूतभक्ति
तदुपाय सम्यग्ज्ञान तदुपाय समीचीनक्रिया तदनुगुण सात्विकतास्तिक्यादि समस्तात्मगुणविहीनः, दुरुत्तरानन्त तद्विपर्यय ज्ञानक्रियानुगुणानादि पापवासना महार्णवान्तर्निमग्नः, तिलतैलवत् दारुवह्निवत् दुर्विवेच त्रिगुण क्षणक्षरणस्वभाव अचेतनप्रकृतिव्याप्तिरूप
दुरत्यय भगवन्मायातिरोहित स्वप्रकाशः, अनाद्यविद्यासञ्चितानन्ताशक्य
विस्रंसन कर्मपाशप्रग्रथितः, अनागता-नन्तकाल समीक्षयाऽपि अदृष्टसन्तारोपायः, निखिलजन्तुजात शरण्य, श्रीमन्नारायण, तव चरणारविन्दयुगलं शरणमहं प्रपद्ये ॥ २ ॥
एवमवस्थितस्यापि अर्थित्वमात्रेण परमकारुणिको भगवान्, स्वानुभवप्रीत्य
उपनीतैकान्तिकात्यन्तिक नित्यकैङ्कर्यैकरतिरूप नित्यदास्यं दास्यतीति विश्वासपूर्वकं
भगवन्तं नित्यकिङ्करतां प्रार्थये ॥ ३ ॥
तवानुभूतिसम्भूत प्रीतिकारितदासताम्
।
देहि मे कृपया नाथ ! न जाने गतिमन्यथा ॥ ४ ॥
सर्वावस्थोचिताशेषशेषतैकरतिस्तव
।
भवेयं पुण्डरीकाक्ष त्वमेवैवं
कुरुष्व माम् ॥ ५ ॥
एवम्भृततत्त्वयाथात्म्यावबोधितदिच्छारहितस्यापि, एतदुच्चारणमात्रावलम्बनेन, उच्यमानार्थ परमार्थनिष्ठं मे मनः त्वमेवाद्यैव कारय ॥ ६ ॥
अपारकरुणाम्बुधे ! अनालोचितविशेषाशेषलोकशरण्य !
प्रणतार्तिहर ! आश्रितवात्सल्यैक महोदधे! अनवरतविदितनिखिलभूतजातयाथात्म्य! अशेषचराचरभूत! निखिलनियमनिरत! अशेषचिदचिद्वस्तु- शेषीभूत ! निखिलजगदाधार !
अखिलजगत्स्वामिन् ! अस्मत्स्वामिन् ! सत्यकाम, सत्यसङ्कल्प ! सकलेतरविलक्षण !
अर्थिकल्पक ! आपत्सख !
काकुत्स्थ ! श्रीमन्नारायण !
पुरुषोत्तम ! श्रीरङ्गनाथ !
मम नाथ ! नमोऽस्तु
ते ॥ ७ ॥
॥ इति
श्रीभगवद्रामानुजविरचितं श्रीरङ्गगद्यं समाप्तम् ॥
श्रीबगवद्रामानुजमुनिभिरनुगृहितं
॥ श्रीवैकुण्ठगद्यम् ॥
यामुनार्यसुधाम्भोधिमवगाह्य
यथामति ।
आदाय भक्तियोगाख्यं
रत्नं सन्दर्शयाम्यहम् ॥
स्वाधीनत्रिविधचेतनाचेतनस्वरूपस्थितिप्रवृत्तिभेदं, क्लेशकर्माद्यशेषदोषासंस्पृष्टं, स्वाभाविकानवधि-कातिशयज्ञानबलैश्वर्यवीर्यशक्तितेजःप्रभृत्यसङ्ख्येयकल्याणगुणगणौघमहार्णवं, परमपुरुषं,
भगवन्तं, नारायणं, स्वामित्वेन सुहृत्त्वेन गुरुत्वेन च परिगृह्य, ऐकान्तिकात्यन्तिकतत्पादाम्बुजद्वयपरिचर्यैकमनोरथः, तत्प्राप्तये
च तत्पादाम्बुजद्वयप्रपत्तेरन्यन्न मे कल्पकोटिसहस्रेणापि साधनमस्तीति मन्वानः, तस्यैव भगवतो नारायणस्य, अखिलसत्त्वदयैकसागरस्य, अनालोचितगुणगणाखण्डजनानुकूलमर्यादाशीलवतः, स्वाभाविकानवधिका-तिशयगुणवत्तया
देवतिर्यङ्मनुष्याद्यखिलजनहृदयानन्दनस्य, आश्रितवात्सल्यैकजलधेः भक्तजनसंश्लेषैक-भोगस्य, नित्यज्ञानक्रियैश्वर्यभोगसामग्रीसमृद्धस्य, महाविभूतेः, मच्चरणारविन्दयुगलम् अनन्यात्मसञ्जीवनेन
तद्गतसर्वभावेन शरणमनुव्रजेत् ॥ १ ॥
ततश्च प्रत्यहमात्मोज्जीवनायैवमनुस्मरेत् ॥ २ ॥
चतुर्दशभुवनात्मकमण्डं दशगुणितोत्तरं चावरणसप्तकं समस्तं कार्यकारणजातमतीत्य परमव्योमशब्दाभिधेये
ब्रह्मादीनां वाङ्मनसाऽगोचरे श्रीमति वैकुण्ठे दिव्यलोके सनकविधिशिवादिभिरपि अचिन्त्यस्वभावैश्वर्यैः
नित्यसिद्धैरनन्तैः भगवदानुकूल्यैकभोगैः दिव्यपुरुषैः महात्मभिरापूरिते, तेषामपि इयत्परिमाणम् इयदैश्वर्यं
ईदृशस्वभावम् इति परिच्छेत्तुमयोग्ये दिव्यावरणशतसहस्रावृते दिव्यकल्पक- तरूपशोभिते दिव्योद्यानशतसहस्रकोटिभिरावृते अतिप्रमाणे दिव्यायतने कस्मिंश्चिद्विचित्रदिव्यरत्नमये
दिव्यास्थानमण्डपे दिव्यरत्नस्तम्भशतसहस्रकोटिभिरुपशोभिते दिव्यनानारत्नकृतस्थलविचित्रिते
दिव्यालङ्का-रालङ्कृते परितः पतितैः पतमानैः पादपस्थैश्च
नानागन्धवर्णैः दिव्यपुष्पैः शोभमानदिव्यपुष्पोपवनैरुपशोभिते, सङ्कीर्णपारिजातादिकल्पद्रुमोपशोभितैरसङ्कीर्णैश्च कैश्चिददन्तः स्थपुष्परत्नादिनिर्मित
दिव्यलीलामण्टप शतसहस्रोपशोभितैस्सर्वदा अनुभूयमानैरपि अपूर्ववदाश्चर्यमावहद्भिः क्रीडाशैलशतसहस्रैरलङ्कृतैः
कैश्चिन्नारायणदिव्यलीलाऽसाधारणैः कैश्चित्पद्मवनालया दिव्यलीलासाधारणैः कैश्चिच्छुकशारिकामयूर-कोकिलादिभिः कोमलकूजितैराकुलैः दिव्योद्यानशतसहस्रकोटिभिरावृते, मणिमुक्ताप्रवालकृतसोपानैः दिव्यामलामृतरसोदकैः दिव्याण्डजवरैरतिरमणीयदर्शनैः अतिमनोहरमधुरस्वरैराकुलैः
अन्तस्स्थमुक्तामयदिव्यक्रीडास्था-नोपशोभितैः
दिव्यसौगन्धिकवापीशतसहस्रैः दिव्यराजहंसावलीविराजितैरावृते, निरस्ताति-शयनानन्दैकरसतया चानन्त्याच्च प्रविष्टानुन्मादयद्भिः
क्रीडोद्देशैर्विराजिते, तत्र तत्र कृतदिव्यपुष्पपर्यङ्को-पशोभिते, नानापुष्पासवास्वादमत्तभृङ्गावलीभिरुद्गीयमानदिव्यगान्धर्वेणापूरिते
चन्दनागरुकर्पूर दिव्यपुष्पावगाहि मन्दानिलासेव्यमाने, मध्ये
दिव्यपुष्पसञ्चयविचित्रिते, महति दिव्ययोगपर्यङ्के अनन्तभोगिनि, श्रीमद्वैकुण्ठैश्वर्यादिदिव्यलोकम् आत्मकान्त्या विश्वमाप्याययन्त्या शेषशेषाशनादि सर्वं परिजनं भगवतस्तत्तदवस्थोचितपरिचर्यायामाज्ञापयन्त्या, शीलरूपगुणविलासादिभिरात्मानुरूपया श्रिया सहासीनं, प्रत्यग्रोन्मीलितसरसिजसदृशनयनयुगलं, स्वच्छनीलजीमूतसङ्काशं अत्युज्वल पीतवाससं स्वया प्रभया अतिनिर्मलया अतिशीतलया
अतिकोमलया स्वच्छमाणिक्याभया कृत्स्नं जगद्भावयन्तं अचिन्त्य दिव्याद्भुतनित्ययौवनस्वभावलावण्यमयामृतसागरं, अतिसौकुमार्यादी-षत्प्रस्विन्नवदालक्ष्यमाणललाटफलकदिव्यालकावलीविराजितं, प्रबुद्धमुग्धाम्बुजचारुलोचनं, सविभ्रम-भ्रूलतमुज्वलाधरं, शुचिस्मितं, कोमलगण्डम्, उन्नसं, उदग्रपीनांसविलम्बिकुण्डलालकाव-लीबन्धुरकम्बुकन्धरं, प्रियावतंसोत्पलकर्णभूषण-श्लथालकाबन्धविमर्दशंसिभिः
चतुर्भिराजानुविलम्बिभि-र्भुजैर्विराजितं, अतिकोमल दिव्यरेखालङ्कृता-ताम्रकरतलं, दिव्याङ्गुलीयकविराजितं अतिकोमल दिव्यनखावलीविराजितमतिरक्ताङ्गुलीभिरलङ्कृतं, तत्क्षणोन्मीलितपुण्डरीकसदृश चरणयुगलम् अतिमनोहरकिरीटमकुटचूडावतंसमकरकुण्डलग्रैवेयक हार
केयूरकटकश्रीवत्सकौस्तुभमुक्तादामो-दरबन्धनपीताम्बरकाञ्चीगुणनूपुरादिभिरत्यन्तसुखस्पर्शैर्दिव्यगन्धैर्भूषणैर्भूषितं, श्रीमत्या वैजयन्त्या वनमालया विराजतं, शङ्खचक्रगदासिशार्ङ्गादिदिव्यायुधैः
सेव्यमानं,
स्वसङ्कल्प-मात्रावकॢप्तजगज्जन्मस्थितिध्वंसादिके
श्रीमति विष्वक्सेने न्यस्तसमस्तात्मैश्वर्यं, वैनतेयादिभिः
स्वभावतो निरस्तसमस्तसांसारिकस्वभावैः भगवत्परिचर्याकरणयोग्यैर्भगवत्परिचर्यैकभोगैः
नित्यसिद्धैरनन्तैर्य-थायोगं सेव्यमानमात्मभोगेनानुसंहितपरादिकालं, दिव्यामलकोमलावलोकनेन विश्वमाह्लादयन्तमीष-दुन्मीलितमुखाम्बुजोदरविनिर्गतेन दिव्याननारविन्दशोभाजननेन दिव्यगाम्भीर्यौदार्यसौन्दर्यमाधुर्याद्य-नवधिकगुणगणविभूषितेन अतिमनोहरदिव्यभावगर्भेण दिव्यलीलालापामृतेन
अखिलजनहृदयान्त-राण्यापूरयन्तं भगवन्तं नारायणं ध्यानयोगेन
दृष्ट्वा [ततो] भगवतो नित्यस्वाम्यम्, आत्मनो
नित्यदास्यं च यथावस्थितमनुसन्धाय, “कदाऽहं
भगवन्तं नारायणं मम कुलनाथं मम कुलदैवतं मम कुलधनं मम भोग्यं मम मातरं मम पितरं मम
सर्वं साक्षात्करवाणि चक्षूषा, कदाऽहं
भगवत्पादाम्बुजद्वयं शिरसाघरयिष्यामि; कदाऽहं भगवत्पादाम्बुजद्वयं परिचर्याऽऽशया निरस्तसमस्तेतरभोगाशः अपगतसमस्त-सांसारिकस्वभावः तत्पादाम्बुजद्वयं प्रवेक्ष्यामि; कदा मां भगवान् स्वकीययाऽतिशीतलया दृशा अवलोक्य स्निग्धगम्भीरमधुरया
गिरा परिचर्यायां आज्ञापयिष्यतीति भगवत्परिचर्यायामाशां वर्धयित्वा तयैवाशया तत्प्रसादोपबृंहितया
भगवन्तमुपेत्य दूरादेव भगवन्तं शेषभोगे श्रिया सहासीनं वैनतेयादिभिः सेव्यमानं “समस्तपरिवाराय श्रीमते नारायणाय नमः” इति प्रणम्य, उत्थायोत्थाय पुनः पुनः
प्रणम्य अत्यन्तसाध्वसविनयावनतो भूत्वा भगवत्पारिषदगणनायकैर्द्वारपालैः कृपया स्नेहगर्भया
दृशाऽवलोकितः सम्यगभिवन्दितैः तैस्तैरेवानुमतो भगवन्तमुपेत्य श्रीमता मूलमन्त्रेण “[भगवन्] माम् ऐकान्तिकात्यन्तिकपरिचर्याकरणाय परिगृह्णीष्व” इति याचमानः प्रणम्यात्मानं भगवते निवेदयेत् ॥ ३ ॥
ततो भगवता स्वयमेवात्मसञ्जीवनेन मर्यादाशीलवता अतिप्रेमान्वितेनावलोकनेनावलोक्य
सर्वदेशसर्वकालसर्वावस्थोचितात्यन्तशेषभावाय स्वीकृतोऽनुज्ञातश्च अत्यन्तसाध्वसविनयावनतः
किङ्कुर्वाणः कृताञ्जलिपुटो भगवन्तमुपासीत ॥ ४ ॥
ततश्चानुभूयमानभावविशेषः निरतिशयप्रीत्य अन्यत् किञ्चित्कर्तुं द्रष्टुं स्मर्तुमशक्तः पुनरपि शेषभावमेव याचमानः भगवन्तमेव अविच्छिन्नस्त्रोतोरूपेणावलोकयन्नासीत
॥ ५ ॥
ततो भगवता स्वयमेवात्मसञ्जीवनेनावलोकनेनावलोक्य सस्मितमाहूय समस्तक्लेशापहं निरतिशयसुखावहमात्मीयं
श्रीमत्पादारविन्दयुगलं शिरसि कृतं ध्यात्वाऽमृतसागरान्तः निमग्नसर्वावयवः सुखमासीत
॥ ६ ॥
लक्ष्मीपतेर्यतिपतेश्च दयैकधाम्नो-
योऽसौ
पुरा समजनिष्ट जगद्धितार्थम् ।
प्राच्यं
प्रकाशयतु नः परमं रहस्यं
संवाद
एष शरणागतिमन्त्रसारः ॥
॥ इति
श्रीवैकुण्ठगद्यं समाप्तम् ॥
॥ ஶ்ரீமதே ராமாநுஜாய நம:
॥
॥ ஶரணாக³தி க³த்³யம் ॥
யோநித்ய மச்யுத பதா³ம்பு³ஜ யுக்³ம ருக்ம-
வ்யாமோஹதஸ் ததி³தராணி த்ருʼணாய மேநே ।
அஸ்மத்³கு³ரோர் ப⁴க³வதோঽஸ்ய த³யைகஸிந்தோ:⁴
ராமாநுஜஸ்ய சரணௌ ஶரணம்
ப்ரபத்³யே ॥
வந்தே³ வேதா³ந்த கர்பூர சாமீகர கரண்ட³கம் ।
ராமாநுஜார்யமார்யாணாம்
சூடா³மணி மஹர்நிஶம் ॥
பெரிய பிராட்டியாரைச் சரணமாகப் பற்றுவது:
ௐ
ப⁴க³வந்நாராயணாபி⁴மதாநுரூப ஸ்வரூப ரூப கு³ண விப⁴வ ஐஶ்வர்யஶீலாத்³ யநவதி⁴காதிஶய அஸங்க்²யேய கல்யாண கு³ணக³ணாம் பத்³மவநாலயாம் ப⁴க³வதீம் ஶ்ரியம் தே³வீம் நித்யாநபாயிநீம்
நிரவத்³யாம் தே³வதே³வ தி³வ்ய மஹிஷீம் அகி²லஜக³ந் மாதரம் அஸ்மந்மாதரம்
அஶரண்ய ஶரண்யாம் அநந்யஶரண: ஶரணமஹம் ப்ரபத்³யே ॥ 1 ॥
பிராட்டியாரிடம் பிரார்த்திப்பது:
பாரமார்தி²க ப⁴க³வச்சரணாரவிந்த³ யுக³ளைகாந்திகாத்யந்திக பரப⁴க்தி பரஜ்ஞாந பரமப⁴க்தி க்ருʼத பரிபூர்ணாநவரத நித்ய விஶத³தம அநந்யப்ரயோஜந அநவதி⁴காதிஶய ப்ரிய ப⁴க³வத³நுப⁴வ ஜநித அநவதி⁴காதிஶய ப்ரீதிகாரித அஶேஷாவஸ்தோ²சித அஶேஷ ஶேஷதைக ரதி ரூப
நித்யகைங்கர்ய ப்ராப்த்யபேக்ஷயா பாரமார்தி²கீ ப⁴க³வச்சரணாரவிந்த³ ஶரணாக³தி: யதா²வஸ்தி²தா அவிரதாঽஸ்து மே ॥ 2 ॥
பிராட்டியாரின் பிரதிவசநம்:
அஸ்து தே ॥ 3 ॥
தயைவ ஸர்வம் ஸம்பத்ஸ்யதே ॥ 4 ॥
எம்பெருமானுடைய ஸ்வரூபம்:
அகி²லஹேய ப்ரத்யநீக கல்யாணைகதாந!
* ஸ்வேதர ஸமஸ்தவஸ்து விலக்ஷண
* அநந்த ஜ்ஞாநாநந்தை³க ஸ்வரூப! *
ரூபம்:
ஸ்வாபி⁴மதாநுரூப ஏகரூப * அசிந்த்ய தி³வ்யாத்³பு⁴த நித்ய நிரவத்³ய* நிரதிஶய ஔஜ்ஜ்வல்ய
ஸௌந்த³ர்ய ஸௌக³ந்த்⁴ய * ஸௌகுமார்ய லாவண்ய * யௌவநாத்³யநந்தகு³ணநிதி⁴ * தி³வ்யரூப!
திவ்யாத்ம கு₃ணங்கள்:
ஸ்வாபா⁴விகாநவதி⁴காதிஶய * ஜ்ஞாநப³லைஶ்வர்ய * வீர்ய ஶக்தி தேஜஸ்ஸௌஶீல்ய
வாத்ஸல்ய* மார்த³வ ஆர்ஜவ * ஸௌஹார்த³ ஸாம்ய காருண்ய * மாது⁴ர்ய கா³ம்பீ⁴ர்ய ஔதா³ர்ய * சாதுர்ய ஸ்தை²ர்ய தை⁴ர்ய ஶௌர்ய பராக்ரம * ஸத்யகாம ஸத்யஸங்கல்ப * க்ருʼதித்வ க்ருʼதஜ்ஞதாத்³யஸங்க்²யேயகல்யாண கு³ணக³ணௌக⁴ மஹார்ணவ !
தி₃வ்ய பூ₄ஷணங்கள்:
ஸ்வோசிதவிவித⁴விசித்ராநந்த * ஆஶ்சர்ய நித்ய நிரவத்³ய * நிரதிஶய ஸுக³ந்த⁴ நிரதிஶய ஸுக²ஸ்பர்ஶ * நிரதிஶய ஔஜ்ஜ்வல்ய * கிரீட மகுட சூடா³வதம்ஸ * மகரகுண்ட³ல க்³ரைவேயக * ஹார கேயூர கடக * ஶ்ரீவத்ஸ கௌஸ்துப⁴ முக்தாதா³ம * உத³ரப³ந்த⁴ந * பீதாம்ப³ர காஞ்சீகு³ண நூபுராத்³யபரிமித * தி³வ்யபூ⁴ஷண! *
தி₃வ்யாயுதங்கள்:
ஸ்வாநுரூப
* அசிந்த்ய ஶக்தி ஶங்க² சக்ர க³தா³[ऽஸி] ஶார்ங்கா³த்³யஸங்க்²யேய * நித்ய நிரவத்³ய * நிரதிஶய கல்யாண * தி³வ்யாயுத⁴!
தி₃வ்யமஹிஷிகள்:
ஸ்வாபி⁴மத நித்ய நிரவத்³யாநுரூப ஸ்வரூபரூப கு³ண விப⁴வ ஐஶ்வர்ய * ஶீலாத்³யநவதி⁴காதிஶய அஸங்க்²யேய கல்யாண கு³ண க³ண ஶ்ரீவல்லப⁴! * ஏவம்பூ⁴த பூ⁴மி நீளா நாயக!
நித்ய போ₄க்தாக்கள்:
ஸ்வச்ச²ந்தா³நுவர்த்தி ஸ்வரூப ஸ்தி²தி ப்ரவ்ருʼத்தி பே⁴தா³ஶேஷ ஶேஷதைக ரதி ரூப * நித்ய நிரவத்³ய நிரதிஶய ஜ்ஞாநக்ரியைஶ்வர்யாதி³ * அநந்த கல்யாண கு³ண க³ண * ஶேஷ ஶேஷாஶந க³ருட³ ப்ரமுக² * நாநாவித⁴ * அநந்த பரிஜந பரிசாரிகா பரிசரித
* சரணயுக³ள!
இருப்பிடம்:
பரமயோகி³ வாங்மநஸாঽபரிச்சே²த்³ய ஸ்வரூப ஸ்வபா⁴வ ஸ்வாபி⁴மத * விவித⁴ விசித்ராநந்த போ⁴க்³ய போ⁴கோ³பகரண போ⁴க³ஸ்தா²ந ஸம்ருʼத்³த⁴ * அநந்தாஶ்சர்யாநந்த * மஹாவிப⁴வாநந்த பரிமாண * நித்ய நிரவத்³ய நிரதிஶய ஶ்ரீவைகுண்ட²நாத² !
ஸ்ருஷ்டி ஸம்ஹாரங்களை லீலையாக வுடையவன்:
ஸ்வஸங்கல்பாநுவிதா⁴யி ஸ்வரூப ஸ்தி²தி ப்ரவ்ருʼத்தி * ஸ்வஶேஷதைக ஸ்வபா⁴வ ப்ரக்ருʼதி புருஷ காலாத்மக
விவித⁴ விசித்ராநந்த * போ⁴க்³ய போ⁴க்த்ருʼவர்க³ போ⁴கோ³பகரண * போ⁴க³ஸ்தா²ந ரூப * நிகி²ல ஜக³து³த³ய விப⁴வ லய லீல !
ஸத்யகாம! ஸத்யஸங்கல்ப! பரப்³ரஹ்மபூ⁴த! புருஷோத்தம! மஹாவிபூ⁴தே! ஶ்ரீமந்! நாராயண! வைகுண்ட²நாத²!
அபாரகாருண்ய ஸௌஶீல்ய வாத்ஸல்ய ஔதா³ர்ய * ஐஶ்வர்ய ஸௌந்த³ர்ய மஹோத³தே⁴! * அநாலோசிதவிஶேஷ
அஶேஷலோகஶரண்ய! *
ப்ரணதார்திஹர! * ஆஶ்ரித வாத்ஸல்யைக ஜலதே⁴! அநவரதவிதி³த நிகி²லபூ⁴தஜாத * யாதா²த்ம்ய! அஶேஷசராசரபூ⁴த * நிகி²லநியமந நிரத! * அஶேஷசித³சித்³வஸ்து ஶேஷிபூ⁴த! * நிகி²ல ஜக³தா³தா⁴ர! * அகி²லஜக³த்ஸ்வாமிந்! * அஸ்மத்ஸ்வாமிந்! * ஸத்யகாம! ஸத்யஸங்கல்ப! * ஸகலேதரவிலக்ஷண! * அர்தி²கல்பக! * ஆபத்ஸக²! * ஶ்ரீமந்! * நாராயண! * அஶரண்யஶரண்ய! * அநந்யஶரண: * த்வத்பாதா³ரவிந்த³யுக³ளம் * ஶரணமஹம் ப்ரபத்³யே ॥
அத்ர த்³வய(மநுஸந்தே³ய)ம் ।
“பிதரம் மாதரம் தா³ராந் * புத்ராந் ப³ந்தூ⁴ந் ஸகீ²ந் கு³ரூந் ।
ரத்நாநி த⁴நதா⁴ந்யாநி * க்ஷேத்ராணி ச க்³ருʼஹாணி ச”
॥
“ஸர்வத⁴ர்மாம்ஶ்ச ஸந்த்யஜ்ய * ஸர்வகாமாம்ஶ்ச
ஸாக்ஷராந் ।
லோகவிக்ராந்த சரணௌ * ஶரணம் தேঽவ்ரஜம் விபோ⁴!” ॥
“த்வமேவ மாதா ச பிதா த்வமேவ * த்வமேவ ப³ந்து⁴ஶ்ச கு³ருஸ்த்வமேவ ।
த்வமேவ வித்³யா த்³ரவிணம் த்வமேவ * த்வமேவ ஸர்வம் மம தே³வதே³வ”
॥
“பிதாঽஸி லோகஸ்ய சராசரஸ்ய * த்வமஸ்ய பூஜ்யஶ்ச கு³ருர்க³ரீயாந் ।
ந த்வத்ஸமோঽஸ்த்யப்⁴யதி⁴க: குதோঽந்யோ * லோகத்ரயேঽப்ய ப்ரதிமப்ரபா⁴வ!”
॥'
“தஸ்மாத் ப்ரணம்ய ப்ரணிதா⁴ய காயம் * ப்ரஸாத³யே த்வாமஹமீஶமீட்³யம் ।
பிதேவ புத்ரஸ்ய ஸகே²வ ஸக்²யு: * ப்ரிய: ப்ரியாயார்ஹஸி
தே³வ! ஸோடு⁴ம்”
॥
அபசாரஙளைப் பொறுக்குமாறு வேண்டுவது:
மநோவாக்காயைঃ * அநாதி³கால ப்ரவ்ருʼத்த * அநந்த அக்ருʼத்யகரண க்ருʼத்யாகரண * ப⁴க³வத³பசார பா⁴க³வதாபசார * அஸஹ்யாபசாரரூப * நாநாவித⁴ * அநந்த அபசாராந் * ஆரப்³த⁴கார்யாந், * அநாரப்³த⁴கார்யாந், * க்ருʼதாந், * க்ரியமாணாந், * கரிஷ்யமாணாம்ஶ்ச ஸர்வாந்
* அஶேஷத: க்ஷமஸ்வ ॥
அநாதி³காலப்ரவ்ருʼத்தம் * விபரீதஜ்ஞாநம் * ஆத்மவிஷயம் * க்ருʼத்ஸ்ந ஜக³த்³விஷயம் ச * விபரீத வ்ருʼத்தம் ச * அஶேஷ விஷயம் * அத்³யாபி வர்த்தமாநம்
வர்திஷ்யமாணம் ச * ஸர்வம்
க்ஷமஸ்வ ॥
மதீ³யாநாதி³கர்ம ப்ரவாஹ ப்ரவ்ருʼத்தாம் * ப⁴க³வத்ஸ்வரூபதிரோதா⁴நகரீம் * விபரீத ஜ்ஞாந ஜநநீம் * ஸ்வவிஷயாயாஶ்ச போ⁴க்³யபு³த்³தே⁴ர் ஜநநீம் * தே³ஹேந்த்³ரியத்வேந போ⁴க்³யத்வேந * ஸூக்ஷ்மரூபேண ச அவஸ்தி²தாம் * தை³வீம் கு³ணமயீம் மாயாம் *
தா³ஸபூ⁴தம் “ஶரணாக³தோঽஸ்மி தவாஸ்மி தா³ஸ:” * இதி வக்தாரம் * மாம் தாரய ।
“தேஷாம் ஜ்ஞாநீ நித்யயுக்த: * ஏகப⁴க்திர்விஶிஷ்யதே ।
ப்ரியோ ஹி ஜ்ஞாநிநோঽத்யர்த²ம் * அஹம் ஸ ச மம ப்ரிய:”
॥
“உதா³ராஸ்ஸர்வ ஏவைதே * ஜ்ஞாநீ த்வாத்மைவ மே
மதம் ।
ஆஸ்தி²தஸ ஹி யுக்தாத்மா * மாமேவாநுத்தமாம் க³திம்”
॥
“ப³ஹூநாம் ஜந்மநாமந்தே * ஜ்ஞாநவாந் மாம் ப்ரபத்³யதே ।
வாஸுதே³வஸ்ஸர்வமிதி * ஸ மஹாத்மா ஸுது³ர்லப:⁴”
॥
இதி ஶ்லோகத்ரயோதி³த ஜ்ஞாநிநம் மாம்
குருஷ்வ ॥
“புருஷஸ்ஸ பர: பார்த²! * ப⁴க்த்யா லப்⁴யஸ்த்வநந்யயா” *
“ப⁴க்த்யா த்வநந்யயா ஶக்ய:” * “மத்³ப⁴க்திம் லப⁴தே பராம்”
இதி ஸ்தா²நத்ரயோதி³த பரப⁴க்தியுக்தம் மாம்
குருஷ்வ ॥
பரப⁴க்தி பரஜ்ஞாந பரமப⁴க்த்யேக ஸ்வபா⁴வம் * மாம் குருஷ்வ ॥
பரப⁴க்தி பரஜ்ஞாந * பரமப⁴க்தி க்ருʼத * பரிபூர்ணாநவரத * நித்யவிஶத³தம அநந்ய ப்ரயோஜந அநவதி⁴காதிஶயப்ரிய ப⁴க³வத³நுப⁴வோঽஹம் * ததா²வித⁴ ப⁴க³வத³நுப⁴வ ஜநித * அநவதி⁴காதிஶய ப்ரீதிகாரித * அஶேஷாவஸ்தோ²சித * அஶேஷஶேஷதைக ரதிரூப
நித்யகிங்கரோ ப⁴வாநி ॥
எம்பெருமானுடைய ப்ரதிவசநம்:
ஏவம்பூ⁴த மத்கைங்கர்ய ப்ராப்த்யுபாயதயா
அவக்லுʼப்த* ஸமஸ்த வஸ்து விஹீநோঽபி * அநந்த தத்³விரோதி⁴ பாபாக்ராந்தோঽபி * அநந்த மத³பசாரயுக்தோঽபி * அநந்த மதீ³யாபசாரயுக்தோঽபி * அநந்த அஸஹ்யாபசாரயுக்தோঽபி * ஏதத்கார்யகாரணபூ⁴த * அநாதி³ விபரீதாஹங்கார விமூடா⁴த்ம ஸ்வபா⁴வோঽபி * ஏதது³ப⁴ய கார்யகாரணபூ⁴த * அநாதி³ விபரீத வாஸநா ஸம்ப³த்³தோ⁴ঽபி * ஏதத³நுகு³ண ப்ரக்ருʼதி விஶேஷ ஸம்ப³த்³தோ⁴ঽபி * ஏதந்மூல * ஆத்⁴யாத்மிக * ஆதி⁴பௌ⁴திக * ஆதி⁴தை³விக * ஸுக²து:³க² தத்³தே⁴து * ததி³தரோபேக்ஷணீய * விஷயாநுப⁴வ ஜ்ஞாந ஸங்கோசரூப * மச்சரணாரவிந்த³யுக³ள ஐகாந்திக * ஆத்யந்திக பரப⁴க்தி பரஜ்ஞாந * பரமப⁴க்தி விக்⁴ந ப்ரதிஹதோঽபி * யேந கேநாபி ப்ரகாரேண * த்³வயவக்தா த்வம் * கேவலம் மதீ³யயைவ த³யயா * நிஶ்ஶேஷ விநஷ்ட ஸஹேதுக * மச்சரணாரவிந்த³யுக³ள ஐகாந்திக * ஆத்யந்திக பரப⁴க்தி பரஜ்ஞாந பரமப⁴க்தி விக்⁴ந: * மத்ப்ரஸாத³லப்³த⁴ மச்சரணாரவிந்த³யுக³ள ஐகாந்திக * ஆத்யந்திக பரப⁴க்தி பரஜ்ஞாந பரமப⁴க்தி: * மத்ப்ரஸாதா³தே³வ * ஸாக்ஷாத்க்ருʼத * யதா²வஸ்தி²த மத்ஸ்வரூபரூப கு³ண விபூ⁴தி * லீலோபகரண விஸ்தார: * அபரோக்ஷஸித்³த⁴ மந்நியாம்யதா * மத்³தா³ஸ்யைக * ஸ்வபா⁴வ * ஆத்மஸ்வரூப: * மதே³காநுப⁴வ: * மத்³தா³ஸ்யைக ப்ரிய: * பரிபூர்ணாந வரத * நித்யவிஶத³தம அநந்யப்ரயோஜந * அநவதி⁴காதிஶயப்ரிய மத³நுப⁴வஸ்த்வம் * ததா²வித⁴ மத³நுப⁴வ ஜநித * அநவதி⁴காதிஶய ப்ரீதிகாரித * அஶேஷாவஸ்தோ²சித * அஶேஷஶேஷதைகரதிரூப * நித்யகிங்கரோ ப⁴வ ।
ஏவம்பூ⁴தோঽஸி ।
ஆத்⁴யாத்மிக ஆதி⁴பௌ⁴திக * ஆதி⁴தை³விக து:³க² விக்⁴ந க³ந்த⁴ ரஹிதஸ்த்வம் * த்³வயமர்தா²நுஸந்தா⁴நேந ஸஹ * ஸதை³வம் வக்தா * யாவச்ச²ரீரபாதம் * அத்ரைவ ஶ்ரீரங்கே³ ஸுக²மாஸ்வ ॥
ஶரீரபாதஸமயே
து கேவலம் *
மதீ³யயைவ த³யயா அதிப்ரபு³த்³த:⁴ * மாமேவ அவலோகயந் * அப்ரச்யுத பூர்வ ஸம்ஸ்கார மநோரத:² * ஜீர்ணமிவ வஸ்த்ரம் ஸுகே²ந இமாம் ப்ரக்ருʼதிம் * ஸ்தூ²லஸூக்ஷ்மரூபாம் விஸ்ருʼஜ்ய * ததா³நீமேவ மத்ப்ரஸாத³லப்³த⁴ மச்சரணாரவிந்த³யுக³ள ஐகாந்திக * ஆத்யந்திக பரப⁴க்தி பரஜ்ஞாந * பரமப⁴க்தி க்ருʼத பரிபூர்ணாநவரத * நித்ய விஶத³தம அநந்ய ப்ரயோஜந * அநவதி⁴காதிஶயப்ரிய மத³நுப⁴வஸ்த்வம் * ததா²வித⁴ மத³நுப⁴வஜநித * அநவதி⁴காதிஶய ப்ரீதிகாரித * அஶேஷாவஸ்தோ²சித * அஶேஷஶேஷதைகரதிரூப * நித்யகிங்கரோ ப⁴விஷ்யஸி ॥
மா தேঽபூ⁴த³த்ர ஸம்ஶய: ।
“அந்ருʼதம் நோக்தபூர்வம் மே * ந ச வக்ஷ்யே கதா³சந * ராமோ த்³விர்நாபி⁴பா⁴ஷதே।
ஸக்ருʼதே³வ ப்ரபந்நாய தவாஸ்மீதி
ச யாசதே ।
அப⁴யம் ஸர்வபூ⁴தேப்⁴யோ த³தா³ம்யேதத்³வ்ரதம் மம ॥
ஸர்வத⁴ர்மாந் பரித்யஜ்ய மாமேகம் ஶரணம்
வ்ரஜ ।
அஹம் த்வா ஸர்வபாபேப்⁴யோ மோக்ஷயிஷ்யாமி மா
ஶுச:”
॥
இதி மயைவ ஹ்யுக்தம் ।
அதஸ்த்வம்
தவ தத்த்வதோ மத்³ஜ்ஞாநத³ர்ஶந ப்ராப்திஷு * நிஸ்ஸம்ஶய: ஸுக²மாஸ்வ ॥
அந்த்யகாலே ஸ்ம்ருʼதிர்யாது தவ
கைங்கர்யகாரிதா ।
தாமேநாம் ப⁴க³வந்நத்³ய க்ரியாமாணாம் குருஷ்வ
மே ॥
இதி ஶ்ரீப⁴க³வத்³ராமாநுஜமுநிவிரசிதே
ஶரணாக³தி க³த்³யம் ஸமாப்தம்॥
॥ ஶ்ரீரங்க³க³த்³யம் ॥
சித³சித்பரதத்த்வாநாம்
தத்த்வயாதா²ர்த்²யவேதி³நே ।
ராமாநுஜாய முநயே நமோ மம
க³ரீயஸே ॥
த்₃வயத்தில் உபேயத்தில் நோக்கான உத்தர வாக்ய விவரணம்:
ஸ்வாதீ⁴ந த்ரிவித⁴ சேதநாசேதந ஸ்வரூப ஸ்தி²தி ப்ரவ்ருʼத்தி பே⁴த³ம் * க்லேஶ கர்மாத்³யஶேஷ தோ³ஷாஸம்ஸ்ப்ருʼஷ்டம் * ஸ்வாபா⁴விகாநவதி⁴காதிஶய ஜ்ஞாந ப³லைஶ்வர்ய * வீர்ய ஶக்தி தேஜஸ் ஸௌஶீல்ய
வாத்ஸல்ய மார்த³வார்ஜவ * ஸௌஹார்த³ ஸாம்ய காருண்ய மாது⁴ர்ய கா³ம்பீ⁴ர்ய ஔதா³ர்ய * சாதுர்ய ஸ்தை²ர்ய தை⁴ர்ய ஶௌர்ய பராக்ரம * ஸத்யகாம ஸத்யஸங்கல்ப * க்ருʼதித்வ க்ருʼதஜ்ஞதாத்³ யஸங்க்²யேய கல்யாண கு³ணக³ணௌக⁴ மஹார்ணவம் * பரப்³ரஹ்ம பூ⁴தம் * புருஷோத்தமம் * ஶ்ரீரங்க³ஶாயிநம் * அஸ்மத்ஸ்வாமிநம் * ப்ரபு³த்³த⁴ நித்ய நியாம்ய நித்ய தா³ஸ்யைகரஸாத்மஸ்வபா⁴வோঽஹம் * ததே³காநுப⁴வ: * ததே³கப்ரிய: * பரிபூர்ணம் ப⁴க³வந்தம் * விஶத³தமாநுப⁴வேந நிரந்தரமநுபூ⁴ய * தத³நுப⁴வ ஜநிதாநவதி⁴காதிஶய ப்ரீதிகாரித * அஶேஷாவஸ்தோ²சித அஶேஷ ஶேஷதைக ரதிரூப
* நித்யகிங்கரோ ப⁴வாநி ॥
உபாயத்தில் நோக்கான பூர்வ வாக்ய
விவரணம்:
ஸ்வாத்ம
நித்ய நியாம்ய நித்யதா³ஸ்யைகரஸாத்ம ஸ்வபா⁴வாநுஸந்தா⁴ந பூர்வக * ப⁴க³வத³நவதி⁴காதிஶய * ஸ்வாம்யாத்³யகி²ல கு³ணக³ணாநுப⁴வஜநித * அநவதி⁴கா திஶய ப்ரீதிகாரித * அஶேஷாவஸ்தோ²சித * அஶேஷஶேஷதைகரதிரூப * நித்ய கைங்கர்ய ப்ராப்த்யுபாய
பூ⁴தப⁴க்தி * தது³பாய ஸம்யக்³ஜ்ஞாந * தது³பாய ஸமீசீந க்ரியா * தத³நுகு³ண ஸாத்விகதாஸ்திக்யாதி³ * ஸமஸ்தாத்மகு³ணவிஹீந: * து³ருத்த ராநந்த * தத்³விபர்யய ஜ்ஞாநக்ரியாநுகு³ண * அநாதி³ பாபவாஸநா மஹார்ணவ அந்தர்நிமக்³ந: * திலதைலவத் * தா³ருவஹ்நிவத் * து³ர்விவேச த்ரிகு³ண க்ஷண க்ஷரணஸ்வபா⁴வ * அசேதந ப்ரக்ருʼதி வ்யாப்திரூப * து³ரத்யய ப⁴க³வந்மாயா திரோஹித
ஸ்வப்ரகாஶ:
* அநாத்³யவித்³யா ஸஞ்சித * அநந்தாஶக்ய விஸ்ரம்ஸந கர்மபாஶ ப்ரக்³ரதி²த: * அநாக³த அநந்தகால ஸமீக்ஷயாঽபி * அத்³ருʼஷ்ட ஸந்தாரோபாய: * நிகி²ல ஜந்துஜாத ஶரண்ய * ஶ்ரீமந் * நாராயண * தவ சரணாரவிந்த³ யுக³ளம் ஶரணமஹம் ப்ரபத்³யே ॥
கைங்கர்யத்தைப் பிரார்த்திப்பது:
ஏவமவஸ்தி²தஸ்யாபி * அர்தி²த்வமாத்ரேண பரமகாருணிகோ
ப⁴க³வாந் * ஸ்வாநுப⁴வ ப்ரீத்ய உபநீத * ஐகாந்திக ஆத்யந்திக * நித்யகைங்கர்யைகரதிரூப * நித்யதா³ஸ்யம் தா³ஸ்யதீதி * விஶ்வாஸபூர்வகம் * ப⁴க³வந்தம் நித்யகிங்கரதாம்
ப்ரார்த²யே ॥
தவாநுபூ⁴தி ஸம்பூ⁴த ப்ரீதிகாரித தா³ஸதாம் ।
தே³ஹி மே க்ருʼபயா நாத² * ந ஜாநே க³திமந்யதா²
॥
ஸர்வாவஸ்தோ²சித அஶேஷஶேஷதைகரதிஸ்தவ
।
ப⁴வேயம் புண்ட³ரீகாக்ஷ! * த்வமேவைவம் குருஷ்வ
மாம் ॥
இதை நீயே செய்வித்தருள வேணுமென்பது:
ஏவம்பூ⁴த தத்த்வயாதா²த்ம்ய அவபோ³த⁴* ததி³ச்சா²ரஹிதஸ்யாபி * ஏதது³ச்சாரண மாத்ராவலம்ப³நேந * உச்யமாநார்த² பரமார்த² நிஷ்ட²ம் * மே மந: * த்வமேவாத்³யைவ காரய ॥
இந்தவாத்மா உனக்கே போ₄க்யமாய்த் தலைக்கட்ட வேணுமென்பது:
அபாரகருணாம்பு³தே⁴! * அநாலோசித விஶேஷ * அஶேஷலோகஶரண்ய! * ப்ரணதார்த்திஹர * ஆஶ்ரித வாத்ஸல்யைக மஹோத³தே⁴! அநவரதவிதி³த நிகி²ல பூ⁴த ஜாத * யாதா²த்ம்ய! * அஶேஷசராசரபூ⁴த * நிகி²லநியமநிரத * அஶேஷ சித³சித்³ வஸ்து ஶேஷிபூ⁴த * நிகி²லஜக³தா³தா⁴ர * அகி²லஜக³த்ஸ்வாமிந் * அஸ்மத்ஸ்வாமிந் * ஸத்யகாம * ஸத்யஸங்கல்ப * ஸகலேதரவிலக்ஷண * அர்தி²கல்பக * ஆபத்ஸக² * காகுத்ஸ்த² * ஶ்ரீமந்நாராயண * புருஷோத்தம * ஶ்ரீரங்க³நாத² * மம நாத², நமோঽஸ்துதே ॥
॥ இதி ஶ்ரீப⁴க³வத்³ராமாநுஜமுநிவிரசிதம்
ஶ்ரீரங்க³க³த்³யம் ஸமாப்தம் ॥
॥ ஶ்ரீவைகுண்ட²க³த்³யம் ॥
யாமுநார்ய ஸுதா⁴ம்போ⁴தி⁴மவகா³ஹ்ய யதா²மதி ।
ஆதா³ய ப⁴க்தியோகா³க்²யம் * ரத்நம் ஸந்த³ர்ஶயாம்யஹம் ॥
எம்பெருமானுடைய ஸ்வரூப ரூப கு₃ண வைலக்ஷண்யங்கள்:
ஸ்வாதீ⁴ந த்ரிவித⁴ சேதநாசேதந ஸ்வரூப ஸ்தி²தி ப்ரவ்ருʼத்தி பே⁴த³ம் * க்லேஶ கர்மாத்³ யஶேஷ தோ³ஷாஸம்ஸ்ப்ருʼஷ்டம் * ஸ்வாபா⁴விக அநவதி⁴காதிஶய ஜ்ஞாந ப³லைஶ்வர்ய * வீர்ய ஶக்தி தேஜ: ப்ரப்⁴ருʼத்யஸங்க்²யேய கல்யாண கு³ணக³ணௌக⁴ மஹார்ணவம் * பரமபுருஷம் * ப⁴க³வந்தம் * நாராயணம் * ஸ்வாமித்வேந ஸுஹ்ருʼத்த்வேந கு³ருத்வேந ச பரிக்³ருʼஹ்ய ஐகாந்திக ஆத்யந்திக
தத்பாதா³ம்பு³ஜ த்³வய பரிசர்யைக மநோரத:² * தத்ப்ராப்தயே ச தத்பாதா³ம்பு³ஜத்³வய ப்ரபத்தேঃ * அந்யந்ந மே கல்பகோடி ஸஹஸ்ரேணாபி ஸாத⁴நமஸ்தீதி மந்வாந: * தஸ்யைவ ப⁴க³வதோ நாராயணஸ்ய * அகி²லஸத்த்வ த³யைக ஸாக³ரஸ்ய * அநாலோசித கு³ணக³ண அக²ண்ட³ஜநாநுகூல மர்யாதா³ஶீலவத: * ஸ்வாபா⁴விக அநவதி⁴காதிஶய கு³ணவத்தயா தே³வதிர்யங்மநுஷ்யாத்³யகி²லஜந ஹ்ருʼத³ய ஆநந்த³நஸ்ய * ஆஶ்ரித வாத்ஸல்யைக ஜலதே:⁴ * ப⁴க்தஜந ஸம்ஶ்லேஷைக போ⁴க³ஸ்ய * நித்ய ஜ்ஞாந க்ரியைஶ்வர்யாதி³ போ⁴க³ஸாமக்³ரீ ஸம்ருʼத்³த⁴ஸ்ய * மஹாவிபூ⁴தே: * ஶ்ரீமச் சரணாரவிந்த³யுக³ளம் அநந்யாத்மஸஞ்ஜீவநேந
* தத்³க³தஸர்வபா⁴வேந * ஶரணம் அநுவ்ரஜேத் ॥ 1 ॥
ததஶ்ச ப்ரத்யஹம் * ஆத்மோஜ்ஜீவநாயைவமநுஸ்மரேத்
॥ 2 ॥
நித்யவிபூ₄தி வைப₄வம் – தி₃வ்யலோகம்:
சதுர்த³ஶபு⁴வநாத்மகமண்ட³ம் * த³ஶகு³ணிதோத்தரம் ச ஆவரணஸப்தகம்
* ஸமஸ்தம் கார்ய காரண ஜாதமதீத்ய
வர்த்தமாநே
* பரமவ்யோம
ஶப்³தா³பி⁴தே⁴யே * ப்³ரஹ்மாதீ³நாம் வாங்மநஸாঽகோ³சரே * ஶ்ரீமதி வைகுண்டே² தி³வ்யலோகே *
ஐஶ்வர்யம்:
ஸநகவிதி⁴ஶிவாதி³பி⁴ரபி * அசிந்த்யஸ்வபா⁴வைஶ்வர்யை: * நித்யஸித்³தை⁴: * அநந்தை: ப⁴க³வதா³நுகூல்யைக போ⁴கை:³ * தி³வ்யபுருஷை: மஹாத்மபி⁴: ஆபூரிதே * தேஷாமபி
இயத்பரிமாணமியதை³ஶ்வர்யம்
* ஈத்³ருʼஶஸ்வபா⁴வமிதி * பரிச்சே²த்து மயோக்³யே
திருக்கோயில்:
தி³வ்யாவரணஶதஸஹஸ்ராவ்ருʼதே * தி³வ்யகல்பகதரூபஶோபி⁴தே * தி³வ்யோத்³யாந ஶதஸஹஸ்ரகோடிபி⁴ராவ்ருʼதே * அதிப்ரமாணே தி³வ்யாயதநே *
திருவோலக்க
மண்டபம்:
கஸ்மிம்ஶ்சித்³விசித்ர தி³வ்யரத்நமய தி³வ்யாஸ்தா²ந மண்ட³பே * தி³வ்யரத்ந ஸ்தம்ப⁴ ஶதஸஹஸ்ரகோடிபி⁴ருபஶோபி⁴தே * தி³வ்யநாநாரத்ந க்ருʼத ஸ்த²ல விசித்ரிதே * தி³வ்யாலங்கார அலங்க்ருʼதே * பரித: பதிதை: பதமாநை: * பாத³பஸ்தை²ஶ்ச நாநாக³ந்த⁴வர்ணை: * தி³வ்யபுஷ்பை: ஶோப⁴மாநை: * தி³வ்ய புஷ்ப உபவநை: உபஶோபி⁴தே * ஸங்கீர்ண பாரிஜாதாதி³ கல்பத்³ரும உபஶோபி⁴தை: * அஸங்கீர்ணைஶ்ச கைஶ்சித் * அந்தஸ்த² புஷ்பரத்நாதி³ நிர்மித தி³வ்யலீலாமண்டப * ஶதஸஹஸ்ரோபஶோபி⁴தைঃ
க்ரீடா₃ஶைலங்கள்:
ஸர்வதா³ அநுபூ⁴யமாநைரபி * அபூர்வவத் ஆஶ்சர்யமாவஹத்³பி:⁴ * க்ரீடா³ஶைல ஶதஸஹஸ்ரை: அலங்க்ருʼதை:
லீலோத்₃யாநங்கள்:
கைஶ்சிந்
நாராயண தி³வ்ய லீலாঽஸாதா⁴ரணை: * கைஶ்சித் பத்³மவநாலயா தி³வ்ய லீலாঽஸாதா⁴ரணை: * ஸாதா⁴ரணைஶ்ச கைஶ்சிச் சு²கஶாரிகா மயூரகோகிலாதி³பி:⁴ * கோமலகூஜிதைராகுலை: * தி³வ்யோத்³யாநஶத ஸஹஸ்ரகோடிபி⁴ராவ்ருʼதே,
நீரோடைகள்:
மணிமுக்தாப்ரவால
க்ருʼதஸோபாநை: * தி³வ்யாமல அம்ருʼத ரஸோத³கை: * தி³வ்யாண்ட³ ஜவரை: * அதிரமணீய த³ர்ஶநை: * அதிமநோஹர மது⁴ரஸ்வரைராகுலை: * அந்தஸ்ஸ்த² முக்தாமய தி³வ்ய க்ரீடா³ஸ்தா²ந உபஶோபி⁴தை: * தி³வ்ய ஸௌக³ந்தி⁴க வாபீ ஶதஸஹஸ்ரை: * தி³வ்ய ராஜ ஹம்ஸாவலீ விராஜிதைராவ்ருʼதே,
லீலாஸ்தானங்கள்:
நிரஸ்தாதிஶய
ஆநந்தை³கரஸதயா ச * ஆநந்த்யாச்ச
ப்ரவிஷ்டாநுந்மாத³யத்³பி:⁴ * க்ரீடோ³த்³தே³ஶைர்விராஜிதே,
பூம்பள்ளிகள்:
தத்ர
தத்ர க்ருʼத தி³வ்ய புஷ்ப பர்யங்க உபஶோபி⁴தே,
வண்டுகளின்
கானம்:
நாநாபுஷ்ப
ஆஸவாஸ்வாத³
மத்த ப்⁴ருʼங்கா³வலீபி⁴: * உத்³கீ³யமாந தி³வ்ய கா³ந்த⁴ர்வேண ஆபூரிதே,
மந்தமாருதம்:
சந்த³நாக³ரு கர்பூர தி³வ்ய புஷ்ப அவகா³ஹி மந்தா³நிலாஸேவ்யமாநே,
திருப்பள்ளிக்கட்டில்:
மத்⁴யே திவ்ய புஷ்ப ஸஞ்சய விசித்ரிதே * மஹதி தி³வ்ய யோக³பர்யங்கே அநந்த போ⁴கி³நி,
பிராட்டியோடு
சேர்த்தி:
ஶ்ரீமத்³வைகுண்டை² ஐஶ்வர்யாதி³ தி³வ்யலோகம் * ஆத்ம காந்த்யா
விஶ்வமாப்யாய யந்த்யா * ஶேஷ
ஶேஷாஶநாதி³ ஸர்வம் பரிஜநம் * ப⁴க³வத: தத்தத³வஸ்தோ²சித * பரிசர்யாயாம் ஆஜ்ஞாபயந்த்யா * ஶீலரூப கு³ண விலாஸாதி³பி⁴: * ஆத்மாநுரூபயா ஶ்ரியா ஸஹாஸீநம்,
திருக்கண்கள், திருமேனி முதலியன:
ப்ரத்யக்³ர உந்மீலித ஸரஸிஜ ஸத்³ருʼஶ நயநயுக³ளம் * ஸ்வச்ச²நீலஜீமூதஸங்காஶம் * அத்யுஜ்வலபீத வாஸஸம் * ஸ்வயா ப்ரப⁴யா அதிநிர்மலயா அதிஶீதலயா
அதிகோமலயா ஸ்வச்ச²யா
மாணிக்யாப⁴யா க்ருʼத்ஸ்நம் ஜக³த்³பா⁴வயந்தம் * அசிந்த்ய தி³வ்யாத்³பு⁴த நித்ய யௌவந ஸ்வபா⁴வ லாவண்யமய அம்ருʼத ஸாக³ரம் * அதிஸௌகுமார்யாதீ³ஷத் ப்ரஸ்விந்நவத் * அலக்ஷ்யமாண லலாடப²லக தி³வ்ய அலகாவலீ விராஜிதம் * ப்ரபு³த்³த⁴ முக்³தா⁴ம்பு³ஜ சாருலோசநம் * ஸவிப்⁴ரமப்⁴ரூலதம் * உஜ்வலாத⁴ரம் * ஶுசிஸ்மிதம் * கோமலக³ண்ட³ம் * உந்நஸம் * உத³க்³ர பீநாம்ஸ விலம்பி³ குண்ட³ல அலகாவலீ ப³ந்து⁴ர கம்பு³கந்த⁴ரம் * ப்ரியாவதம்ஸ உத்பல கர்ணபூ⁴ஷணஶ்லதா²லகாப³ந்த⁴ விமர்த³ஶம்ஸிபி:⁴ * சதுர்பி⁴: ஆஜாநுவிலம்பி³பி⁴ர்பு⁴ஜை: விராஜிதம் * அதிகோமல தி³வ்ய ரேகா²லங்க்ருʼத ஆதாம்ரகரதலம் * தி³வ்ய அங்கு³லீயக விராஜிதம் * அதிகோமல தி³வ்ய நகா²வலீ விராஜிதம் * அநுரக்தாங்கு³லீபி⁴: அலங்க்ருʼதம் * தத்க்ஷண உந்மீலித புண்ட³ரீக ஸத்³ருʼஶ சரணயுக³ளம்
தி₃வ்யாபரணங்கள்:
அதிமநோஹர
கிரீட மகுட சூடா³வதம்ஸ * மகரகுண்ட³ல க்³ரைவேயக * ஹார கேயூர கடக * ஶ்ரீவத்ஸ கௌஸ்துப⁴ முக்தாதா³ம * உத³ரப³ந்த⁴ந பீதாம்ப³ர காஞ்சீகு³ண நூபுராதி³பி⁴: * அத்யந்த ஸுக² ஸ்பர்ஶை: தி³வ்யக³ந்தை⁴: * பூ⁴ஷணைர்பூ⁴ஷிதம்,
திருமாலை:
ஶ்ரீமத்யா
வைஜயந்த்யா வநமாலயா விராஜிதம்,
தி₃வ்யாபரணங்கள்:
ஶங்க² சக்ர க³தா³ஸி ஶார்ங்கா³தி³ தி³வ்யாயுதை:⁴ ஸேவ்யமாநம்,
ஸேனாபதியாழ்வான்
முதலானோருடைய கைங்கர்யம்:
ஸ்வஸங்கல்பமாத்ர
அவக்லுʼப்த * ஜக³ஜ்ஜந்ம ஸ்தி²தி த்⁴வம்ஸாதி³கே * ஶ்ரீமதி விஷ்வக்ஸேநே
ந்யஸ்த* ஸமஸ்த ஆத்மைஶ்வர்யம் * வைநதேயாதி³பி:⁴ * ஸ்வபா⁴வதோ நிரஸ்த ஸமஸ்த ஸாம்ஸாரிக ஸ்வபா⁴வை: * ப⁴க³வத் பரிசர்யாகரண யோக்³யை: * ப⁴க³வத் பரிசர்யைக போ⁴கை:³ * நித்யஸித்³தை⁴: அநந்தை: யதா²யோக³ம் ஸேவ்யமாநம் * ஆத்மபோ⁴கே³ந அநநுஸம்ஹித பராதி³காலம் * தி³வ்யாமல கோமல அவலோகநேந * விஶ்வமாஹ்லாத³யந்தம் * ஈஷது³ந்மீலித முகா²ம்பு³ஜ உத³ர விநிர்க³தேந * தி³வ்யாநநாரவிந்த³ ஶோபா⁴ஜநநேந * தி³வ்ய கா³ம்பீ⁴ர்ய ஔதா³ர்ய ஸௌந்த³ர்ய மாது⁴ர்யாத்³யநவதி⁴க கு³ணக³ண விபூ⁴ஷிதேந * அதிமநோஹர தி³வ்ய பா⁴வக³ர்பே⁴ண * தி³வ்ய லீலாலாப அம்ருʼதேந * அகி²லஜந ஹ்ருʼத³யாந்தராணி ஆபூரயந்தம் * ப⁴க³வந்தம் நாராயணம் * த்⁴யாநயோகே³ந த்³ருʼஷ்ட்வா * [ததோ] ப⁴க³வதோ நித்யஸ்வாம்யம் * ஆத்மநோ நித்யதா³ஸ்யம் ச * யதா²வஸ்தி²தம் அநுஸந்தா⁴ய
ஸர்வேஶ்வரனைக்
கிட்டி அநுப₄விப்பது – ஆத்ம நிவேதநம்:
“கதா³ஹம் ப⁴க³வந்தம் நாராயணம் * மம குலநாத²ம் * மம குலதை³வதம் * மம குலத⁴நம் * மம போ⁴க்³யம் * மம மாதரம் * மம பிதரம் * மம ஸர்வம் * ஸாக்ஷாத் கரவாணி
சக்ஷூஷா
* கதா³ஹம் ப⁴க³வத் பாதா³ம்பு³ஜ த்³வயம் * ஶிரஸா தா⁴ரயிஷ்யாமி * கதா³ஹம் ப⁴க³வத் பாதா³ம்பு³ஜத்³வய * பரிசர்யாகரண யோக்³ய: * தத்பாதௌ³ பரிசரிஷ்யாமி * கதா³ஹம் ப⁴க³வத்பாதா³ம்பு³ஜத்³வயம் பரிசர்யாஶயா * நிரஸ்த ஸமஸ்தேதர போ⁴கா³ஶ: * அபக³த ஸமஸ்த ஸாம்ஸாரிக ஸ்வபா⁴வ: * தத்பாதா³ம்பு³ஜ த்³வயம் ப்ரவேக்ஷ்யாமி * கதா³மாம் ப⁴க³வாந் ஸ்வகீயயா * அதிஶீதலயா த்³ருʼஶா அவலோக்ய * ஸ்நிக்³த⁴ க³ம்பீ⁴ர மது⁴ரயா கி³ரா * பரிசர்யாயாம் ஆஜ்ஞாபயிஷ்யதி” இதி * ப⁴க³வத்பரிசர்யாயாம் ஆஶாம்
வர்த⁴யித்வா * தயைவாஶயா * தத்ப்ரஸாத³ உபப்³ருʼம்ஹிதயா * ப⁴க³வந்தம் உபேத்ய * தூ³ராதே³வ ப⁴க³வந்தம் * ஶேஷபோ⁴கே³ ஶ்ரியா ஸஹாஸீநம் * வைநதேயாதி³பி:⁴ ஸேவ்யமாநம் * “ஸமஸ்தபரிவாராய ஶ்ரீமதே
நாராயணாய நம”
இதி * ப்ரணம்ய உத்தா²ய உத்தா²ய * புந: புந: ப்ரணம்ய
அத்யந்த ஸாத்⁴வ ஸவிநயா வநதோ பூ⁴த்வா * ப⁴க³வத் பாரிஷத³ க³ணநாயகை: * த்³வாரபாலை: * க்ருʼபயா ஸ்நேஹ க³ர்ப⁴யா த்³ருʼஶாঽவலோகித: * ஸம்யக³பி⁴வந்தி³தை: * தைரேவாநுமதோ ப⁴க³வந்தமுபேத்ய * ஶ்ரீமதா மூலமந்த்ரேண “பகவந்! மாம் ஐகாந்திக ஆத்யந்திக பரிசர்யா
கரணாய பரிக்³ருʼஹ்ணீஷ்வ” இதி யாசமாந: * ப்ரணம்ய ஆத்மாநம் ப⁴க³வதே நிவேத³யேத் ॥ 3 ॥
ஆத்ம ஸமர்ப்பணத்திற்குப் பின்:
ததோ
ப⁴க³வதா ஸ்வயமேவ * ஆத்மஸஞ்ஜீவநேந * அமர்யாதா³ ஶீலவதா * அதி ப்ரேமாந்விதேந * அவலோகநேநா அவலோக்ய * ஸர்வதே³ஶ ஸர்வகால ஸர்வாவஸ்தோ²சித * அத்யந்த ஶேஷபா⁴வாய * ஸ்வீக்ருʼத: அநுஜ்ஞாதஶ்ச * அத்யந்த ஸாத்⁴வ ஸவிநயாவநத: * கிங்குர்வாண: க்ருʼதாஞ்ஜலிபுட: * ப⁴க³வந்தம் உபாஸீத ॥ 4 ॥
ததஶ்ச
அநுபூ⁴யமாந பா⁴வவிஶேஷ: * நிரதிஶய ப்ரீத்யா அந்யத்
கிஞ்சித் கர்த்தும் த்³ரஷ்டும் ஸ்மர்த்தும் அஶக்த: * புநரபி ஶேஷபா⁴வமேவ யாசமாந: * ப⁴க³வந்தமேவ * அவிச்சி²ந்ந ஸ்ரோதோரூபேண * அவலோகநேந * அவலோகயந் ஆஸீத ॥ 5 ॥
ததோ
ப⁴க³வதா ஸ்வயமேவ * ஆத்மஸஞ்ஜீவநேந * அவலோகநேந அவலோக்ய * ஸஸ்மிதமாஹூய * ஸமஸ்தக்லேஶாபஹம் * நிரதிஶய ஸுகா²வஹம் * ஆத்மீயம் * ஶ்ரீமத்பாதா³ரவிந்த³யுக³ளம் * ஶிரஸி க்ருʼதம் த்⁴யாத்வா * அம்ருʼதஸாக³ர அந்தர்நிமக்³ந: * ஸர்வாவயவ: ஸுக²மாஸீத ॥ 6 ॥
லக்ஷ்மீபதேர்யதிபதேஶ்ச த³யைகதா⁴ம்நோ:
யோঽஸௌபுரா ஸமஜநிஷ்ட ஜகத்³தி⁴தார்த²ம் |
ப்ராச்யம் ப்ரகாஶயது நঃ பரமம் ரஹஸ்யம்
ஸம்வாத³ ஏஷ
ஶரணாக³தி மந்த்ரஸார: ||
॥ இதி ஶ்ரீப⁴க³வத்³ராமாநுஜமுநிவிரசிதே
ஶ்ரீவைகுண்ட²க³த்³யம் ஸமாப்தம் ॥
No comments:
Post a Comment